"अट्कृप्वाङनुञ्व्यवायेऽपि"
८।४।२ इति प्राप्तस्य णत्वस्य प्रतिषेधोऽयमुच्यते। "वृक्षान्()" इति। "प्रथमयोः पूर्वसवर्णः"
६।१।९८ इति दीर्घः, "तस्माच्छसो नः पुंसि"
६।१।९९ इति सकारस्य नकारः॥
पदान्तस्य। "रषाभ्यां नो ण" इत्यनुवर्तते " न भाभूपू" इत्यतो "ने"ति च, तदाह--पदान्तस्येति। अथ तृतीयाविभक्तिः। तत्र टा इति टकारस्य "चुटू" इतीत्संज्ञायां लोपः। टकारोच्चारणं तु "टाङसिङसां" "द्वितीयाटौस्स्वि"त्यादौ विशेषणार्थम्।